Bhadrakali Kavacha from Brahmavaivarta Purana

।। नारद उवाच।।कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम् ।।नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च साम्प्रतम् ।। १ ।। नारायण उवाच ।।शृणु नारद वक्ष्यामि महाविद्यां दशाक्षरीम् ।।गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम् ।। २ ।।ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम् ।।दुर्वासा हि ददौ राज्ञे पुष्करे सूर्य्यपर्वणि ।।३।।दशलक्षजपेनैव मन्त्रसिद्धिः कृता पुरा ।।पञ्चलक्षजपेनैव पठन्कवचमुत्तमम् ।।४।।बभूव सिद्धकवचोऽप्ययोध्यामाजगाम सः […]